इन्द्र उवाच
ऊँ नम: कमलवासिन्यै नारायण्यै नमो नम:।
कृष्णप्रियायै सारायै पद्मायै च नमो नम: ॥1॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नम:।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नम: ॥2॥
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नम:।
सुखदायै मोक्षदायै सिद्धिदायै नमो नम: ॥3॥
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नम:।
कृष्णवक्ष:स्थितायै च कृष्णेशायै नमो नम: ॥4॥
कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने।
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नम: ॥5॥
शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नम:।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नम: ॥6॥
वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥7॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता।
सुरभी सा गवां माता दक्षिणा यज्ञकामिनी ॥8॥
अदितिर्देवमाता त्वं कमला कमलालये।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥9॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥10॥
क्रोधहिंसावर्जिता च वरदा च शुभानना।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥11॥
यया विना जगत् सर्वं भस्मीभूतमसारकम्।
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥12॥
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी।
यया विना न सम्भाष्यो बान्धवैर्बान्धव: सदा ॥13॥
त्वया हीनो बन्धुहीनस्त्वया युक्त: सबान्धव:।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥14॥
यथा माता स्तनन्धानां शिशूनां शैशवे सदा।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपत: ॥15॥
मातृहीन: स्तनत्यक्त: स चेज्जीवति दैवत:।
त्वया हीनो जन: कोsपि न जीवत्येव निश्चितम् ॥16॥
सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥17॥
वयं यावत् त्वया हीना बन्धुहीनाश्च भिक्षुका:।
सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥18॥
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि।
कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै ॥19॥
कामं देहि मतिं देहि भोगान् देहि हरिप्रिये।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥20॥
प्रभावं च प्रतापं च सर्वाधिकारमेव च।
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ॥21॥
फलश्रुति:
इदं स्तोत्रं महापुण्यं त्रिसंध्यं य: पठेन्नर:।
कुबेरतुल्य: स भवेद् राजराजेश्वरो महान् ॥
सिद्धस्तोत्रं यदि पठेत् सोsपि कल्पतरुर्नर:।
पंचलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥
सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयत:।
महासुखी च राजेन्द्रो भविष्यति न संशय: ॥
॥ इति श्रीब्रह्मवैवर्तमहापुराणे इन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् ॥
अक्षय तृतीया की तारीख, मुहूर्त और पूजा विधि देखें →








