॥ श्रीतुलसीषोडशकनामस्तोत्रं नामावलिश्च ॥
तुलसी श्रीमहालक्ष्मीः विद्याऽविद्या यशस्विनी ।
धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया ॥
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः ।
लभते सुतरां भक्तिं अन्ते विष्णुपदं लभेत् ॥
तुलस्यै नमः ।
श्रीमहालक्ष्म्यै नमः ।
विद्यायै नमः ।
अविद्यायै नमः ।
यशस्विन्यै नमः ।
धर्म्यायै नमः ।
धर्मावनासक्तायै नमः ।
पद्मिन्यै नमः ।
श्रियै नमः ।
हरिप्रियायै नमः ।
लक्ष्मीप्रियसख्यै नमः ।
देव्यै नमः ।
दिवे नमः ।
भूम्यै नमः ।
अचलायै नमः ।
चलायै नमः ॥16
जय राधे, जय कृष्ण, जय वृंदावन: भजन (Jaya Radhe Jaya Krishna Jaya Vrindavan)
श्री गायत्री माता की आरती (Gayatri Mata Ki Aarti)
वैष्णव जन तो तेने कहिये, जे.. भजन (Vaishnav Jan To Tene Kahiye Je)
Post Views: 81